________________
त्योपा-लघुवृत्तिः।
[१९९ शण्डिकाऽऽदेlः । ६ । ३ । २१५ । अस्मात् स्यन्ताद् आभिजननिवासार्थाद् अस्येत्यर्थे ण्यः स्यात् । शाण्डिक्यः,।
कौचवार्यः ॥ २१५ ॥ सिन्ध्वादेरञ् । ६।३ । २१६ । अस्मात् स्यन्ताद् आभिजननिवासार्थात्
षष्ठयर्थे अञ् स्यात् ।
__सैन्धवः, कर्णकः ॥ २१६ ॥ सलातुराद् ईयण् । ६ । ३ । २१७॥ अस्मात् स्यन्ताद् आभिजन-निवासार्थात् षष्ठयथे ईयण स्यात् । सालातुरीयः पाणिनिः ॥ २१७ ॥