________________
स्वोपज्ञ - लघुवृत्ति: 1
चल्याऽऽहारार्थेभ्यः इडादिभ्यश्च णिगन्तेभ्यः
कर्त्तरि
परस्मैपदं स्यात् । चलयति, कम्पयति, भोजयति,
आशयति चैत्रमन्नम्,
सूत्रमध्यापयति शिष्यम्, बोधयति पद्मं रविः, योधयति काष्ठानि,
प्रावयति राज्यम्, द्रावयति अपः स्रावयति तैलम्,
[ ६१
नाशयति पापम्,
जनयति पुण्यम् ॥ १०८ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीय
स्वाध्यायस्य तृतीयः पादः समाप्तः || ३ || ३ ||