________________
३० ]
क्रमेः कर्त्तरि
आत्मनेपदं स्यात् । प्रक्रमते - उपक्रमते भोक्तुम् ।
आरम्भ इति किम् ?
[ हैम-शब्दानुशासनस्य
प्रक्रामति - यातीत्यर्थः ॥ ५१ ॥
आङो ज्योतिरुद्गमे । ३ । ३ । ५२ ।
आङः परात्
क्रमेः
चन्द्राद्युद्गमाऽर्थांत् कर्त्तरि
आत्मनेपदं स्यात् । आक्रमते चन्द्र:- सूर्यो वा ।
ज्योर्तिरुद्गम इति किम् ? आक्रामति बटुः कुतुपम्,
धूम आक्रामति ॥ ५२ ॥ दागोs - स्वाssस्यप्रसारविकाशे । ३ । ३ । ५३ ।