________________
स्वोपश-लघुवृत्तिः ।
[ ४९१ यज्ञः, स्वमः,
रक्ष्णः, यत्नः, प्रश्नः ॥ ८५ ॥ विच्छो न । ५ । ३ । ८६ ।
विच्छे
भावा-कों: नङ् स्यात् ।
विश्नः ॥ ८६ ॥ उपसर्गाद् दः किः । ५। ३ । ८७ । उपसर्गपूर्वाद् दासंज्ञाद् धातोः
भावा-कोंः
किः स्यात
आदिः, निधिः ॥ ८७ ॥ व्याप्यादाधारे । ५ । ३ । ८८ । व्याप्यात् पराद् दासंज्ञात् धातोः
आधारे किः स्यात् ।
जलधिः ॥ ८८ ॥