________________
४०६)
[हम-शब्दानुशासनस्य
सु-यजोनिप् । ५ । १ । १७२ । आभ्यां भूतार्थाभ्यां
वनिप स्यात् ।
सुत्वानौ, यज्वा ।। १७२ ।। जुषोऽतः । ५ ।। १ । १७३ । जुषेः भूतार्थात् अतः स्यात् ।
जरती ॥ १७३ ॥ क्त-क्तवतू । ५ । १ । १७४ । भूतार्थाद् धातोः
एतौ स्याताम् ।
कृतः, कृतवान् ।।१७४।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ
पञ्चमस्याध्यायस्य प्रथमः पादः समाप्त:
- -
- -
-
-
-
-
- -
-
-