________________
स्वोप-लघुवृत्तिः ]
कृगः
भृतौ गम्यायां
टः स्यात् ।
___ कर्मकरी दासी ॥ १०४ ॥ देम-प्रिय-मद्र-भद्रात् खाऽण् ।५।१।१०५।
एभ्यः कर्मभ्यः परात्
कृगः
खाऽणौ स्याताम् । क्षेमङ्करः-क्षेमकारः
प्रियङ्करः-प्रियकारः, मद्रङ्करः-मद्रकार,
भद्रङ्करः-भद्रकारः ॥ १०५॥ मेघ-ति-भया-ऽभयात् खः ।५।१।१०६।
एभ्यः कर्मभ्यः परात्
कृगः
ख: स्यात् । मेघङ्करः, ऋतिङ्करः,
भयङ्करः, अभयङ्करः ॥१०६॥