________________
३६८ )
। हैम-शब्दानुशासनस्य
कर्मणः परात्
हन्तेः
आशिषि ... डः स्यात् । शत्रुहः ॥ ८० ॥ क्लेशाऽऽदिभ्योऽपात् । ५। १ । ८१ ।
क्लेशादिकर्मणः परात्
हन्ते:
डः स्यात् ।
क्लेशापहः, तमोऽपहः ॥ ८१ ॥ कुमार-शीर्षात् णिन् । ५। १ । ८ । आभ्या कर्मभ्यां पराद्
हन्तेः
णिन् स्यात् । कुमारघाती, शीर्षघाती ॥ ८२ ॥ अचित्ते टक् । ५। १ । ८३ । कर्मणः पराद् हन्तेः अचित्तवति कर्तरि
टक् स्यात् ।