________________
३६४
। हेम-शब्दानुशासनस्थ
प्र-सृ-धोऽकः साधौ । ५। १।६९ । एभ्यः साध्वर्थेभ्यः
अकः स्यात् । प्रवकः, सरकः, लवकः । __ साधौ इति किम् ? प्रावकः ॥ ६९ ।। आशिष्यकन् । ५ । १ । ७०। आशिषि गम्यायां
धातोः .
अकन् स्यात् । जीवकः ।
आशिषि इति किम् ? जीविका ॥७०।। तिकृतौ नाम्नि । ५। १ । ७१ । आशीविषये
संज्ञायां गम्यमानायां धातोः तिक् कृतश्च स्युः।
शान्तिः, वीरभूः, वर्द्धमानः ॥७१॥