________________
१९० ]
[ हैम-शब्दानुशासनस्य
-
-
व्यञ्जनान्तस्य अनुदितः धातोः
उपान्त्यस्य नः विडति परे
लुक स्यात् ।
स्रस्तः, सनीस्रस्यते । व्यजनस्य इति किम् ? नीयते । अनुदित इति किम् ?
नानन्द्यते ॥ ४५ ॥ अञ्चोऽन याम् । ४ । २ । ४६ । अनर्चार्थस्यैव
अश्वेः
उपान्त्य-नः विङति परे
लुक् स्यात् ।
उदक्तमुदकं कूपात् । अन याम् इति किम् ? .... अश्विताः गुरवः ॥ ४६ ॥