________________
स्वोपक्ष-लघुवृत्तिः ।
[ १०३
तथा।
तप्यते-तेपे वा तपः साधुः । तप इति किम् ?
उत्तपति स्वर्ण स्वर्णकारः । कर्मेति किम् ?
__ तपः साधु तपति ॥ ८५ ॥ एकधातौ कर्मक्रिययैकाऽकर्म-क्रिये । ३ । ४ । ८६ । एकस्मिन् धातो कर्मस्थ-क्रियया
पूर्वदृष्टया एका अभिन्ना सम्प्रतिपक्षकमिका
क्रिया यस्य, तस्मिन् कर्तरि
कर्म-कर्तृरूपे धातोः=
जि-क्या-त्मनेपदानि स्युः ।