________________
६३८)
। हैम-शब्दानुशासनस्य . गवादिवर्जनं किम् ? - स्वस्ति तुभ्यं
सगवे-सहगवे । सवत्साय-सहवत्साय,
__ सहलाय-सहहलाय ॥ १४८ ॥ समानस्य धर्मा-ऽऽदिषु । ३।२।१४९। धर्मादौ उत्तरपदे
समानस्य
सः स्यात् ।
सधर्मा, सनामा ॥ १४९ ॥ स-ब्रह्मचारी ।३।२।१५० । अयं निपात्यते ॥ १५० ॥ दृक्-दृश-दृक्षे ।३।२।१५१ । एषु-उत्तरपदेषु समानस्य
सः स्यात् । सहकू, सदृशः, सदृक्षः ॥ १५१ ॥