________________
४७८ 1
। हैम-शब्दानुशासनस्य
ये उत्तरपदे लुव् न स्यात् , दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः
कालेजः ॥ २७॥ अपो य-योनि-मति-चरे । ३।२।२८। अपः परस्याः सप्तम्याः ये प्रत्यये
योन्यादौ च उत्तरपदे लुब् न स्यात् अप्सव्यः, अप्सुयोनिः,
अप्सुमतिः, अप्सुचरः ॥ २८ ॥ नेन्--सिद्ध-स्थे ।३।२ । २९ । इन्प्रत्ययान्ते सिद्धस्थयोश्चोत्तरपदयोः न लुब् न स्यात्,
भवत्येवेत्यर्थः ।