________________
२०]
। हैमशब्दानुशासनस्थ
अधण्तस्वाद्या शसः । १ । १।३२ । धण्वः तस्वादयः शस्पर्यन्ताः
ये प्रत्ययाः ...तदन्तं नाम
अव्ययं स्यात् । देवा अर्जुनतोऽभवन् , ततः, तत्र, बहुशः । अधणिति किम् ? पथि द्वैधानि ॥ ३२ ॥
विभक्ति-थमन्त-तसाद्याभाः।१।१।३३।
विमक्त्यन्ताभाः थमवसान-तसादिप्रत्ययान्ताभाश्च
अव्ययानि स्युः । अहंयुः, अस्तिक्षीरा गौः, कथम् . कुतः ॥३३॥