SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका । कालेपि घटो नास्ति इत्यापत्तिः । अन्त्ये घटानयनात्मानास्तीत्यनापत्तिरिति परास्तम् । तनातिरिक्ताभावे प्रमाणमिति चेत् । उच्यते । तत्त्वज्ञानिनां क्रियमाणकर्मभिर्धर्माधर्मौ नोत्पयेते इति सर्वसिद्धम् । तत्कस्य हेतोः । मिथ्याज्ञानवासनारूप, कारणाभावादिति चेन्न । अनन्तमिथ्याज्ञानवासनानां हेतुतामपेक्ष्य प्राथमिकतत्त्वज्ञान व्यक्तिमागभावस्यैव हेतुत्वकल्पने लाघवात् । तथा च लाघवात् कारणत्वेन प्रागभावसिद्धिः । किं चान्यतरकमैजसंयोगे कर्मणः संयोगं प्रति न समवायेन हेतुता, कर्मशून्ये तदुत्पत्तेर्व्यभिचारात् । नापि कालिकसम्बन्धेन, घटकर्मणा स्तम्भाका - शसंयोगापचेः । तस्मात्स्वजन्य संयोगप्रागभाववता संसर्गेण कर्मणः कारणता वाच्येति प्रागभावसिद्धिः । एवमनेकतन्तुकपटादिस्थले तत्तत्तन्तु संयोगानामपि न समवायेन हेतुता संयोगेभ्यो द्विमात्रानेष्टेभ्यः पटस्याधिकेषूत्पत्तेर्व्यभिचारात् । कालिकेन हेतुत्वे तूक्तातिप्रसङ्ग इत्युक्तरीत्या स्वजन्यपटप्रागभाववता संसर्गेण हेतुता वाच्येति तत्सिद्धिः । एवं दाहे मण्यभावः प्रतिबन्धकाभावतया कारणम् । तस्याधिकरणस्वरूपत्वे तावदधिकरणानां कारणत्वे गौरवात् । अभावव्यतिरेकेण कारणतावच्छेदकतयाधिकरणे दुवचत्वेन तदयोगाच्चात्यन्ताभावोपि लाघवाद् भिन्न आवश्य कः । एवमतिरिक्तध्वंसमन्तरेण मोक्षस्यैव दुर्वचत्वात् ध्वंसोप्यावश्यकः । तथाहि । न तावन्नित्यसुखाभिव्यक्तिर्मुक्तिः । सुखवदभिव्यक्तर्नित्यत्वे इदानीमपि सखेन मुक्तिसंसारयोरविशेषणसङ्गात् । न च नित्यसुखाभिव्यक्तिर्मुक्तिसमये जायते मनसेति मतं साधु । जन्यभावस्य विनाशित्च्त्वनियमेनैकज्ञानव्यक्तिनाशे मुक्तिहानापत्तेः । अभिव्यक्तिपरम्परा च जन्यज्ञानत्वावच्छिन्ने शरीरस्य हेतुत्वेन तदभावान युक्ता । तस्मादात्यन्तिको दुःख ४७.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy