SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ૨૮ पदार्थदीपिका । कृत्यैव बोधकत्वात् उपमिनोमीत्यनुव्यवसायाच्चोत नैयायिकाः । वैशेषिकास्तु | अयं गवयशब्दवाच्यः गोसदृशत्वात् इत्यनुमा नात्तद्ग्रहः । आप्तवचनाच्च तथाव्याप्तिग्रहात् । उपमिनोमीत्यनुव्यवसायश्च सन्दिग्धः, सत्वे वा ऽनुमितित्वव्याप्तमेव तदस्तु । तथा च न पृथक् प्रमाणमित्याहुः ॥ शब्दात्मत्येमीत्यनुभवसिद्धा शाब्दत्वजातमिती शाब्दी, तत्करणं शब्दः प्रमाणम् । तथाहि । घटं नय पटमानयेत्यादिप्रयोज्यप्रयोजकवाक्यं शृण्वतो बालस्यावापोद्वापाभ्यां घटपटादिव्यवहारं पश्यतस्तद्वयवहारेण तदीयं ज्ञानमनुमिनुतस्तज्जनकत्वेनान्वयव्यतिरेकाभ्यां शब्दमवगच्छतो ऽसम्बद्धस्याबोधकत्वात्सम्बन्धोस्तीति अनुमितिर्भवति । स च सम्बन्धः शक्तिरुच्यते । एवमुपमानात्कोशादिभ्यस्तदनन्तरमन्यत्रापि तद्ग्रहः । एवं घटादिपदशक्तिग्रहे सति गृहीतशक्तिकपदात् पदार्थोपस्थितावाकांक्षा योग्यतादिसहकारिवशाच्छाब्दप्रमा जायते । सा फलम् । यदान्येव ज्ञायमानानि करणानि पदज्ञानं वा करणं पूर्ववत् पदजन्य पदार्थोपस्थितिरवान्तरव्यापार इत्यूह्यम् । ननु गवादिपदानां वृद्धव्यवहारेण सन्निहिते गवि शक्तिग्रहेपि देशान्तरीया पूर्वगोबोधः कथं तत्र शक्त्यग्रहात् । अन्यथा गोशब्दादश्वबोधापत्तिरिति चेन्न । सामान्यलक्षणप्रत्यासत्त्या सकलगोव्यक्तेः शक्तिग्रहसमये चोपस्थितौ सर्वत्रैकजात्यादिविशिष्टे तद्रहेणा दोषात् । तथा च न्यायसूत्रम् । व्यक्तयाकृतिजातयस्तु पदार्थ इति । एकवचनेन जात्यादिविशिष्टे शक्त्यैक्यं सूचयति । मीमांसकास्तृ गोत्वे एव शक्तिः तदाश्रयत्वेन लक्षणया व्यक्तिबोध इत्याहुः । गव्येव शक्तिने तु गोपि गौरवात् नापि गोवे एव शक्तिर्गवि लक्षणेति युक्तम् । गामानयेत्यत्रैव वृत्तिद्वयकल्पने गौ -
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy