SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः । प्यपास्तः । वर्णप्रत्यक्षस्यापि तत्र मानताया स्वीकारात् । प यस्थलोप एकैव शक्तिः परं त्वानुपूर्येवावच्छोदिका । वर्णानामपि तदतिरिक्तानामभावेनोक्तबाधकाभावादित्युक्तम् । ये तु वर्णानां तदतिरिक्तध्वनीनां वा स्वीकारपक्षेपि स्फोटस्य बाच. कत्वं समर्थयन्ते । वर्णातिरिक्तः स्फोट एस वाचकत्वान्यथानु.. पपस्या कल्प्यते । न च वर्णा वाचका इति युकम् । अनभि. ध्यक्तानां वाचकत्वेतिप्रसङ्गादभिव्यक्तेश्चासम्भवात् । प्रत्यक्षे विषयस्यापि हेतुत्वात् । न च स्मरणं सम्भवति । एवमपि व. नामतीतत्वेन करणत्वायोगात् । तज्ज्ञानं करणमिति पक्षेपि पदार्थस्मरणोपयोगिनस्तस्यासम्भवात् । न च पूर्ववर्णानुभवजन्यसंस्कारसहकारेण श्रोत्रणैकदा स्मरंणं युक्तम् । तदेकमने वा । आधे क्रमाभानात् सरो रस इत्यादौ विशेषो न स्यात् । अन्त्ये ज्ञानयोगपद्यापत्तिः। एवमेकं पदमेकं वाक्यमिति प्रतीतिरपि तत्र मानम् । न चैकं वनमितिवत्सा । वनसश्यादेरप्यति. रिक्तत्वात् । किं च तत्रैकदेशावच्छिन्नत्वोपाधेरेकत्वेन सोपाधि. रेव प्रतीतिः स्यात् । प्रकृते चोपाधेरसभंवेन तदसम्भवात् । न चैकार्थबोधहेतुत्वं तथा । व्याससमासयोरपि प्रसङ्गात् । ना. प्यविशिष्टैकार्थप्रत्ययजनकत्वम् । समासेष्वव्याप्तः । अपद इत्यत्र प्रकृत्यंशेतिव्याप्तेश्च । अस्मन्मते चाखण्डं वाचकमकं स्फोटमादायकत्वात्ययः, तद्वयञ्जकाश्च वर्णाः । तदस्वीकारे ध्वनयः । प्रतीतिवैलक्षण्यमपि ध्वनिकृतम् । तदुक्तं वाक्यपदीये । 'यथा मणिकृपाणादौ रूपमेकमनेकधा । तथैव ध्वनिषु स्फोट एक एव विभिद्यत' इति । सादृश्यादिप्रतीतिरपि व्यञ्जकध्वनिनिवन्धनैव । आहचैवं कैयटोपीत्याहुः । स्यादयं प्रागुक्तस्तेषां दोषः। किं च । तवैवार्थबोधानुपपत्तिः । वर्णानां प्रत्येक व्यञ्जकत्वं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy