________________
( ४१६ )
[२] अथ संग्रहश्लोकाः।
। संहितानिरूपणम् । संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥
। माननिरूपणम् । उर्ध्वं मानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ॥ २ ॥
। स्वांगनिरूपणम् । अविकारोऽद्रवं मूर्त प्राणिस्थं स्वांगमुच्यते । च्युतं च प्राणिनस्तत्तन्निमं च प्रतिमादिषु ॥ ३ ॥
।जातिनिरूपणम्। आकृतिग्रहणाजातिलिङ्गानां न च सर्वभाक् । सकृदाख्यातनिह्या गोत्रं च चरणैः सह ।। ४ ॥
। गुणनिरूपणम् । सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥ ५॥