________________
परिशिष्टम् ।
[१] परिभाषाप्रकरणम् ।
स्वं रूपं शब्दस्याशब्दसंज्ञा ॥१॥ आद्यन्तवदेकस्मिन् ॥२॥ एकदेशविकृतमनन्यवत् ॥ ३ ॥ भूतपूर्वकस्तद्वदुपचारः ॥ ४ ॥ भाविनि भूतवदुपचारः ॥५॥ यथासंख्यमनुदेशः समानाम् ॥६॥ विवक्षातः कारकाणि ॥ ७ ॥ अपेक्षातोऽधिकारः ॥ ८ ॥ अर्थवशाद्विभक्तिपरिणामः ॥ ९ ॥ अर्थवदग्रहणे नानर्थकस्य ॥१०॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ ११ ॥ नामग्रहणे लिङ्गविशिष्टस्यापि ॥१२॥ प्रकृतिग्रहणे यडूलुबन्तस्यापि ॥१३॥ संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥१४॥ असिद्धं बहिरङ्गमन्तरङ्गे ॥ १५ ॥ गौणमुख्ययोमुख्य कार्यसंप्रत्ययः ॥१६॥ कृत्रिमाकृत्रिमयोः कृत्रिमे ॥ १७ ॥ क्वचिदुमयगतिः ॥ १८ ॥ सिद्धे सत्यारम्भो नियमार्थः ॥१९॥ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ॥ २० ।। उक्तार्थानामप्रयोगः ॥ २१ ॥ निमित्ताभावे नैमित्तिकस्याप्यभावः ॥२२॥ सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः ॥ २३ ॥ निरनुबन्धग्रहणे न सानुबन्धकस्य' ॥ २४ ॥ एकानुबन्धग्रहणे न द्वयनुबन्धकस्य ॥ २५ ॥ पूर्वेऽप