________________
( ४१० )
न्याये “ तीर्थ " - स्थितिमुपगतः कालिकाता- नगय “वैशारद्य” प्रथनमपि सम्पादितो " बङ्ग" - विज्ञैः । [ २४ ]
श्रीमद्गुरूणां कृपया प्रभूतया
" प्रवर्त्तकत्वे " विनियोजितो यकः ।
स्वबन्धु -वात्सल्यमपि स्फुरत्तरं
व्यधाद् “ उपाध्याय " पदान्वितं च यम् ॥
[ २५ ]
सत्तामनुचरः सोऽहमेतद् बालक – चापलम् । यथाशक्ति शुभं कार्यमित्यभिप्रायतो व्यधाम् ॥
[ २६ ]
जानाम्यहं व्याकरणस्य निर्मितिः
( चतुर्भिः कलापकम् )
काठिन्यपूर्णा, तदपीह चेष्टितम् ।
व्युत्पत्तिसिद्धयै सरलाध्वयोजना — प्रादुष्चिकीर्षावशतो ममाभवत् ॥
[ २७ ]
दोषान् समीक्षा - सुलभान् विलोक्य संशोधयिष्यन्ति कृपार्दचित्ताः ।