________________
(४९) अथ स्वरान्तनपुंसकलिङ्गाः। अकारान्तो नपुंसकलिङ्गः कुलशब्दः-कुल+सिं इति स्थिते ।
अतः स्यमोऽम् । १।४। ५७ । अकारान्तनपुंपकसम्बन्धिनोः स्यमोरमादेशः स्यात् । कुलम् । कुल+औ इति स्थिते
' औरीः । १। ४ । ५६ । नपुंसकसम्बन्धिन औप्रत्ययस्य स्थाने ईकार: स्यात् । कुले। कुल+जस् इति स्थिते.
नपुंसकस्य शिः । १ । ४ । ५५ । . नपुंसकसम्बन्धिनोर्जस्-शसोः शिः स्यात् । शकारः 'शिघुट्र इत्यत्र विशेषणार्थः । कुल+इ इति स्थिते ।
. स्वराच्छौ । १।४। ६५ । __ जस्-शसादेशे शौ परे स्वरान्ताद् नपुंसकातू परो नोऽन्तादेशः स्यात् ।
.. नि दीर्घः । १।४। ८५। .
शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घः स्यात् । कुलानि । कुलं कुले कुलानि । शेषं देववत् । एवं धन-वन -मूल-फल-सर्व-विश्वादयः ॥ अन्य+सि इति स्थिते.
पञ्चतोऽन्यादेरनेकतरस्य दः।१।४। ५८ ।