________________
ग्रन्थकर्तुः प्रशस्तिः।
[१] चेतश्चमत्करणकारितया विपश्चितां
तत्त्वप्रबोधनविधौ समता-विकासने । विभ्राजते कलियुगेऽपि यदीय-शासनं
तस्मै नमो भगवते “ त्रिशलाङ्गजन्मने " {k
[२]
जीयाद् गणेशोऽस्य महेश्वरस्य
" श्रीइन्द्रभृति " हतविघ्ननालः । पयोनिधिलब्धि-तरंगिणीनां
दावानलः कष्टवनावनीनाम् ॥
[३] नन्द्यात् सुधर्मा भगवान् “ सुधर्मा "
श्रीवीरपट्टादिमसूत्रधारः। यदीय एकादश-संख्यकाङ्ग
दीपो जगद् दीपयतेऽधुनापि ॥