SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ (३६३) कनै दीप्त्यादावित्यस्मादाशः प्रत्ययः, ईकारश्चाकारस्य भवति। कीनाशः कर्षकः वर्णसंकरः कदर्यश्च । तथा 'लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च । योऽनाति वाऽऽममांसं सच कीनाशो यमश्चैव ॥ ५३४ ॥ . कुलिकनिकणिपलिवडिभ्यः किशः ॥५३५॥ एभ्यः किद् इशः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः कुलिशं वज्रम् । कनै दीप्त्यादौ कण शब्दे कनिशं कणिशं च सस्यमञ्जरी । पल गतौ पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते । वड आग्रहणे सौत्रः बडिश मत्स्यग्रहणम् ॥ ५३५ ॥ बलेणिद् वा ॥ ५३६ ॥ बल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्ययः, स च णिद् वा । बालिशः, बलिशः मूर्खः । बलिशं बडिशम् ॥९३६॥ मरज्यक्तिभ्यामुशः ॥ १३८ । - आम्यामुशो। भवति टुमस्जोंत् शुद्धौ ‘न्यद्गमेघादयः' इति गः मद्गुशः नकुलः । अकुङ् लक्षणे अङ्कुशः सृणिः॥५३८॥ -कृ-त-मीङ्-माभ्यः षः॥ ५४० ॥ - एभ्यः षःप्रत्ययो भवति । वृगट वरणे वर्षः भर्ता । वर्ष संवत्सरः। वर्षा ऋतुः । कृत् विक्षेपे कर्षः उन्मानविशेषः । त प्लवनतरणयोः तर्षः प्वः हर्षश्च । मीङ्च् हिंसायां मेषः उरभ्रः । मांक माने माषः धान्यविशेषः हेमपरिमाणं च ॥ ५४॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy