________________
(३३६) अर्थवान् जलम् अन्नं वायुः मयूरः कूर्मः धार्मिकश्च। अनक् प्राणने प्राणथः बलवान् ईश्वरः प्रजापतिश्च ॥ २३२ ॥
- आपोऽप् च ॥ २३८ ॥
आप्लंट व्याप्तौ इत्यस्माद् दः प्रत्ययो भवति, अस्य चाप आदेशः। अब्दं वर्षम् ॥ २३८ ॥
गोः कित् ॥ २३९ ॥ गुंत् पुरीषोत्सर्गे इत्यस्मात् किन दः प्रत्ययो भवति । गुदम् अपानम् ॥ २३९ ॥
कुमुद-बुबुदादयः ॥ २४४ ॥ एते उदप्रत्ययान्ता निपात्यन्ते । कमेः कुम् च । कुमुदं कैरवम् । बुन्देः कित् वोऽन्तश्च बुबुदः जलस्फोटः । बुबुदं नेत्रजो व्याधिः । आदिशब्दाद् दोहदः अभिलाषः ॥ २४ ४ ॥
स्कन्धमिभ्यां धः ॥ २५१ ॥ आभ्यां धः प्रत्ययो भवति । स्कन्दं गतिशोषणयोः स्कन्ध बाहुमूर्धा ककुदं विभागश्च । अम गतौ अन्धः चक्षुर्विकलः ॥२५१॥ .
नेः स्यतेरधक् ॥ २५२ ॥ निपूर्वात् घोच् अन्तकर्मणि इत्यस्माद् अधक् प्रत्ययो मवति । निषधा जनपदः । निषधः पर्वतः ॥ २५२ ॥
पराच्छ्रो डित् ॥ २५५ ॥