SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ (३३४) अवाद् गोऽच्च वा ॥ २२६ ॥ . अवपूर्वाद् गायतेः थः प्रत्ययः, अच्चान्तादेशो वा भवति । अवगथः, अवगाथः अक्षसंघातः प्रातःसवनं रथयानं साम पन्थाश्च ॥ २२६ ॥ नीनूरमितृतदिवचिरिचिसिविश्विनिपागोपावोगाभ्यः कित् ॥ २२७ ॥ एभ्यः कित् थः प्रत्ययो भवति । णींग प्रापणे नीथं जलम् । सुनीयो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च । णूत् स्तवने नूथं तीर्थम् । रमिं क्रीडायां रथः स्यन्दनः । तृ प्लवनतरणयोः तीर्थ जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च। तुदींतू व्यथने तुत्थं चक्षुष्यो धातुविशेषः । वचं भाषणे उक्थं शास्त्रं सामवेदश्च । उक्थानि सामानि । रिचुंपी विरेचने रिक्थं धनम् । षिचीत् क्षरणे सिक्यं मदनं पुलाकश्च । ट्वोश्वि गतिवृद्ध्योः शूथः यज्ञप्रदेशः । इनक् हिंसागत्योः हथः पन्थाः कालश्च । पां पाने पीथं बालघृतपानम् अम्भः नवनीतं च । पीथः मकरः रविश्च । गोपूर्वाद् गोपीथः तीर्थविशेषः गोनिपानं जलद्रोणी कालविशेषश्च । में शब्दे अवगीथम् यज्ञकर्मणि प्रातःशंसनम् । उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानं प्रथमोच्चारणं च ॥ २२७ ॥ ..... न्युद्भ्यां शीङः ॥ २२८ ॥ . न्युत्पूर्वात् शीफू स्वप्ने इत्यस्मात् कित् थः प्रत्ययो
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy