________________
( २८५) रजः-फले-मलाद् ग्रहः । ५ । १ । ९८ ।
एभ्यः कर्मभ्यः पराद् ग्रद्धातोः इ: प्रत्ययो भवति । रजोग्रहिः । फलेपहिः । मलग्रहिः ।
देव-वातादापः । ५ । १ । ९९ । आभ्यां परादापधातोरिः प्रत्ययो भवति । देवापिः । वातापिः । शकृत्स्तम्बाद् वत्सत्रीहौ कृगः । ५। १ । १०० ।
आभ्यां कर्मभ्यां परात् कृगो यथासंख्यं वत्सत्रीह्योः कोरिः भवति । शकृत्करिः वत्सः । स्तम्बकरिः व्रीहिः । 'किंयत्तद्बहुभ्यः कृगः अः वाच्यः' किंकरः, यत्करः, तत्करः, तस्करः चौरश्चेत्, बहुकरः । संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकायन्तानन्तकारबाह
रुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदार... जनिदोषादिनदिवसाहः । ५ । १ । १०२ ।
एभ्यः कर्मभ्यः कृमः ट: प्रत्ययो भवति । संख्याकरः । द्विकरः । अहस्करः । दिवाकरः । विभाकरः । निशाकरः । प्रभाकरः । भास्करः । चित्रकरः । कर्तृकरः । आदिकरः । अन्तकरः । अनन्तकरः । कारकरः । बाहुकरः । अरुष्करः । धनुष्करः । नान्दीकरः । लिपिकरः । लिविकरः । बलिकरः । मक्तिकरः । क्षेत्रकरः । जङ्घाकरः । क्षपाकरः । क्षणदाकरः । रजनिकरः । दोषाकरः । दिनकरः । दिवसकरः । संख्याकरी ।