________________
(२८०) घ्राध्मापा दशः शः।५।२। ५८ । एभ्यः कर्तरि शः प्रत्ययो भवति । शित्त्वाद् जिघ्राद्यादेशाः । निघः । उद्धमः । पिवः । धयः । उत्पश्यः । साहिसासिवेद्युदेजिधारिपारिचेतेरनुपसर्गात् । ५ । १।५९ । ___ अनुपसर्गेभ्यो ण्यन्तेभ्य एतेभ्यः शो भवति । साहयः । सातयः । वेदयः । उदेजयः । धारयः । पारयः । चेतयः ।
लिम्प-विन्दः । ५ । १।६० । ___ अनुपसर्गाभ्यामाभ्यां शो भवति । लिम्पतीति लिम्पः । विन्दतीति विन्दः ।
निगवादेर्नाम्नि । ५। १।६१। निपूर्वाद् लिम्पेः गवादिपूर्वाञ्च बिन्देः सञ्ज्ञायां को भवति । निलिम्पा देवाः । गोविन्दः । कुविन्दः ।
वा ज्वलादिदुनीभूग्रहास्रोणः । ५ । १। ६२ ।
ज्वलादिभ्योः दुनोत्यादिभ्य आस्रोश्चानुपसर्गेभ्यो णः प्रत्ययो वा भवति । ज्वलः, ज्वालः । चालः, चलः । दावः, दवः । नायः, नयः । भावः, भवः । ग्राहो मकरादिः, ग्रहः सूर्यादिः । आस्रावः, आस्रवः ।
अवहसासंस्रोः । ५ । १ । ६३ । अवपूर्वाभ्यां हसाभ्यां सम्पूर्वाञ्च स्रोश्च णः प्रत्ययो भवति । अवहारः । अवसायः । संस्रावः ।