SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ (११८) असेवीत् । प्रियच् गतिशोषणयोः । ठिवू लिवूच निरसने । छीव्यति । ष्ठीब्येत् । ष्ठीव्यतु । अष्ठीव्यत् । ‘तिर्वा ष्ठिवः' तिष्ठेव तिष्ठिवतुः तिष्ठिवुः । पक्षे टिष्ठेव टिष्ठिवतुः टिष्ठिवुः। ष्ठीव्यात् । ष्ठेविता। ष्ठेविष्यति । अष्ठेविष्यत् । अष्ठेवीत् । क्षीव्यति । क्षीव्येत् । क्षीव्यतु । अक्षीव्यत् । चिक्षेव । क्षीन्यात् । क्षेविता । क्षेविष्यति । अक्षविष्यत् । अक्षेवीत् । इषच् गतौ । इष्यति । इष्येत् । इश्यतु । ऐष्यत् । इयेष ईषतुः ईषुः । इयेषिथ। इष्यात् । एषिता । एषिष्यति । ऐषिष्यत् । एषीत् । ष्णसूच निरसने । स्नस्यति । सस्नास । स्नसिता । अस्नासीत् , अस्नसीत् । क्नसूच वृतिदीप्त्योः क्नस्यति । चक्नास । अक्नसीत्, अक्नासीत् । मैच भये । त्रस्यति । त्रस्येत् । त्रस्यतु । अत्रस्यत् । त्रस्यात् । त्रसिता । त्रमिष्यति । अत्रसिष्यत् । अत्रासीत् , अत्रसीत् । परोक्षायाम् तत्रास तत्रसतुः, वेसतुः तत्रसुः, त्रेसुः। त्रेसिथ, तत्रमिथ । 'भ्रासभ्लासभ्रममत्राति' इत्यादिना वा श्ये । पक्षे त्रसति । त्रसेत् । त्रसतु । अत्रसत् । प्युसच दाहे । वह पहच शक्तो । सद्यति । सह्येत् । सह्यतु। असह्यत्। ससाह सेह : सेहुः । सेहिथ । सह्यात् । सहिता, सोढा । सहिष्यति । असहिष्यत् । असाहीत् , असहीत् । अथ पुषादिः। पुषंच पुटौ । पुष्यति । पुष्येत् । पुष्यतु । अपुष्यत् । पुपोष। पुष्यात् । पोष्टा । पेक्ष्यति । अपेक्ष्यित्। पुषादित्वादङ् अपुषत् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy