SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ .. . . सतुः पिपेसुः । अपेसीत् । शसू हिंसायाम् । शसति । शशास । अशासीत् , अशसीत् । शंसू स्तुतौ च इति सान्ता धात्वः । मिहं सेचने। मेहति । मिमेह । मिह्यात् । मेढा। मेक्ष्यति । अमेक्ष्यत् । अमेक्षत, अत्र सक् अमेक्षताम् अमेक्षन् । अमेक्षः अमेक्षतम् अमेक्षत। अमेक्षम् अमेक्षाव अमेक्षाम। दहं भस्मीकरणे । दहति । दहेत् । दहतु । अदहत् । ददाह देहतुः देहुः । देहिथ, ददग्ध । दह्यात् । दुग्धा । धक्ष्यति । अधक्ष्यत् । अधाक्षीत् अदाग्धाम् अधाक्षुः । अधाक्षी: अदाग्धम् अदाग्ध । अधाक्षम् अधाक्ष्व अधोक्ष्म । रह त्यागे । रहु गतौ । रंहति । ररंह । अरंहीत् । ह्ह दृहु बृह वृद्धौ । बह बृहु शब्दे च । बर्हति । बबर्ह । अद्यतन्यामङि अबृहत् अबृहताम् अबृहन् । अंङभावे अबहीत् अबहिष्टाम् अबर्हिषुः । बृंहति । बबुंह । अबृहीत् । उह तुह दुह अर्दने । ओहति । औहत् , औहीत् । तोहति । तुतोह । अतुहत् , अतोहीत् । दोहति । दुदोह । अदुहत् , अदोहीत् । अर्ह मह पूजायाम् । अर्हति । आनह । आीत् । महति । ममाह मेहतुः । मेहुः । अमहीत् । इति हान्ता धातवः । उक्ष सेचने । उक्षति । उक्षाञ्चकार । उक्षाम्बभूव । उक्षामास । औक्षीत् । रक्ष पालने रक्षति । ररक्ष । अरक्षीत् । मक्ष मुक्ष संघाते । मुक्षति । मुमुक्ष । अमुक्षीत् । अक्षौ व्याप्तौ च । वाऽक्षः । ३।४।७६ । अक्षधातोः कर्तरि विहिते शिति प्रत्यये अनुर्वा, भवति ।।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy