________________
( २३९) अव्ययस्य स्वराणां मध्येऽन्त्यात् स्वरात् प्राक् कप्रत्ययो मवति, तद्योगे को द् च भवति । उच्चकैः, नीचकैः, धकिद् ।
कुत्सिताल्पाज्ञाते । ७ । ३ । ३३ । एप्वर्थेषु वर्तमानाद् नाम्नो यथायोगं कबादयो भवन्ति । कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः, गर्दभकः । अनुकम्पायां तद्युत्कनीतौ च गम्यमानायां नाम्नो यथायोगं कबादयो भवन्ति । अनुकम्पितः पुत्रः पुत्रकः । स्वपिषकि पुत्रक । एहकि कर्दमकेन दिग्धकोऽसि पुत्रक । अजाते।नाम्नो बहुस्वरादियेकेलं वा । ७ । ३ । ३५ ।
अजातिमनुष्यनाम्नो बहुस्वरादनुकम्पायां एते प्रत्यया वा मवन्ति । देवदत्तियः, देवदत्तिकः, देवदत्तिलः, देवदत्तकः ।
पूर्वपदस्य वा । ७।३। ४५ । अनुकम्पायां स्वरादौ प्रत्यये परे पूर्वपदस्य लुग्वा भवति । दत्तियः, देवियः, एवं देविकः, देविलः 'द्वितीयात्स्वरादूर्ध्वम् । इति लुकि सत्याम् । 'हस्वेऽर्थे यथायोगं कबादयो वाच्याः स्वः पटः पटकः । एवं पुस्तककम ।
वैकाद् द्वयोनिर्धार्ये डतरः । ७ । ३ । ५२ ।
समुदायादेकदेशो जातिगुणक्रियाद्रव्यैर्बुद्धया पृथक् क्रियमाणो निर्धार्यः । द्वयोरेकस्मिन् निर्धार्येऽर्थे एकशब्दाद् डतरो वा