________________
( २ )
लुदन्ताः समानाः । १ । १ । ७ । ऌकारान्ता वर्णा अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ इत्येते
समानसंज्ञकाः स्युः ।
अनत्रर्णा नामी । १ । १ । ६ ।
अवर्णरहिताः स्वरा मिसंज्ञकाः स्युः । इ ई उ ऊ ऋ ऋ ऌ ऌ ए ऐ ओ औ ।
ए ऐ ओ औ सन्ध्यक्षरम् । १ । १ । ८ । ए ऐ ओ औ इत्येते वर्णाः सन्ध्यक्षरसंज्ञकाः स्युः ।
अं अः अनुस्वारविसर्गौ । १ । १ । ९ । अकारावुच्चारणार्थौ । अं इति नासिक्यः, अः इति च कण्ठ्यः तौ क्रमेणानुस्वारविसर्गसंज्ञकौ स्याताम् ।
1
एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः । १ । १ । ५ । मात्रा कालविशेषः । एक-द्वि-त्रयुच्चारणमात्रा औदन्ता वर्णाः क्रमेण ह्रस्वदीर्घप्लुतसंज्ञकाः स्युः । अ इ उ ऋ ऌ ह्रस्वाः, आ ई ऊ ऋ ऌ ए ऐ ओ औ दीर्घाः, आ, ई, ऊ, इत्यादयः प्लुताः। अर्धमात्रिकं च व्यञ्जनम् प्रतिपादितमन्यत्रापि ----
“एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् " ॥ १॥ "चाषस्त्वे वदेन्मात्रां द्विमात्रां वायसो वदेत् ।
त्रिमात्रां तु शिखी ब्रूयाद् नकुलश्चार्धमात्रकम् " ||२||