SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ .. संख्यावाचिनः संख्या पूर्यते येनेत्यर्थे डट् प्रत्ययो भवति । एकादशानां पूरणः एकादशः, एवं द्वादशः । द्वादशी, त्रयोदशी, चतुर्दशी। . . . विशत्यादेवा तमट् । ७ । १ । १५६ । संख्यावाचिनो विंशत्यादेः संख्यापूरणे तमड् भवति वा । विशतेः पूरणः विंशः, विंशतितमः । त्रिंशत्तमः, त्रिंशः। एकविंशतितमः, एकविंशः। ___ षष्टयादेरसङ्ख्यादेः।७।१ । १५८ । नास्ति संख्यावाची आदिरवयवो यस्य तस्मात् षष्टयादेः संख्यापूरणे तमड् भवति । षष्टेः पूरणः षष्टितमः । सप्ततेः पूरणः सप्ततितमः । असंख्यादेरिति किम्-एकषष्टः । - नो मट् । ७।१। १५९ । असंख्यादेर्नान्तसंख्यायाः संख्यापूरणे मड् भवति । पन्चानां पुरकः पञ्चमः । एवं सप्तमः, अष्टमः, नवमः, दशमः । असंख्यादेरित्येव-द्वादशः। पित् तिथट् बहुगणपूगसङ्घात् । ७।१।१६।। बहुगणपूगसंघेभ्यः पूरणेऽर्थे तिथट् प्रत्ययो भवति स च पित् । बहूनां पूरकः बहुतियः, एवं गणतिथः, प्रगतिथः, सङ्घतियः। अतोरियट् । ७।१ । १६१।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy