________________
(२१४) प्रमाणान् मात्रट् । ७ । १ । १४० । प्रथमान्तात् प्रमाणवाचिनः पष्ठ्यर्थे मात्रड् भवति । जानुनी प्रमाणमायामोऽस्य जानुमात्रमुदकम् । एवं रज्जुमात्री, तन्मात्री भूमिः । 'हस्तिपुरुषाभ्यामणपि वाच्यः' हस्ती प्रमाणमस्य हस्तिमात्रम्, हास्तिनम् , हस्तिदघ्नम् , हस्तिद्वयाम् । पुरुषमात्रम, पौरुषम, पुरुषदघ्नम्, पुरुषद्वयसम् ।
___ वोर्ध्व दनदद्वयसद् । ७ । १ । १४२ ।
ऊर्ध्वं यत् प्रमाणं तदर्थात् प्रथमान्ताद् षष्ठ्यर्थे दनवयसटी वा भवतः, पक्षे मात्रट् । अरुः प्रमाणमस्य उरुघ्नम्, उरुद्वयसम्, उरुमात्रं जलम् । ऊर्ध्वमिति किम्-रज्जुः प्रमाणमस्या रज्जुमात्री भूमिः।
मानादसंशये लुप् । ७ । १ । १४३ । यःप्रसिद्धो मानवाची शब्दो हस्तवितस्त्यादिने तु रज्ज्वादिः, स लक्षणया प्रमाणे वर्तते; तस्मात् परस्य मात्रडादेः प्रत्ययस्यासंशये गम्ये लुब् भवति । हस्तः प्रमाणमस्य हस्तः, एवं वितस्तिः । मानादिति किम्-उरुमात्रम् । असंशय इति किम्-हस्तमात्रं स्यात् । 'मानार्थान्ताद् द्विगोस्तु संशयेऽसंशये च लुब वाच्यः' द्विप्रस्थः, द्विप्रस्थः स्यात् ।
मात्रट् । ७।१।१४५। .