________________
( २१३) लिबालश्चक्षुषि चिपिलचुल् चास्य । ७।१।१३०॥ ... क्लिन्नशब्दाच्चक्षुष्यर्थे लो भवति । तत्सन्नियोगे च क्लिनशब्दस्य चिलू पिलू चुल् इत्येते आदेशा भवन्ति । चिलम् , पिल्लम्, चुल्लं चक्षुः। ... अवेः संघातविस्तारे कटपटम् । ७।१। १३२।
अतः षष्ठयन्तात् संघाते विस्तारे चार्थे यथासंख्यं कटपटौ मवतः । अवीनां संघातोऽविकटः । अवीनां विस्तारोऽविपटः । 'उपत्यकाधित्यके निपात्यौ' उपत्यका पर्वतासन्ना भूः, अधित्यका पर्वताधिरूढा भूः। - पशुभ्यः स्थाने गोष्ठः । ७।१।१३३।.
पशुवाचिभ्यः षष्ठयन्तेभ्यः स्थानेऽर्थे गोष्ठो भवति । अश्वानां स्थानमश्वगोष्ठम् । महिषीगोष्ठम् ।।
तिलादिभ्यः स्नेहे तैलः । ७।१।१३६ । - षष्ठयन्तेभ्यस्तिलादिभ्यः स्नेहेऽर्थे तैलो भवति । तिलानां लेहः तिलतैलम्, सर्षपतैलम् , एरण्डतैलम् । 'कर्मणि घटते इत्यय कर्मठः ।। तदस्य संजातं तारकादिभ्य इतः । ७।१।१३८ ।
प्रथमान्तेभ्यस्तारकादिभ्यः षष्ठयर्थे इतः प्रत्ययो भवति । चारका संजाता अस्येति तारकितं नमः । पुष्पाणि संनातान्यस्य पुष्पितस्तरुः।