________________
घाण भवति । शुचे वः कर्म वा शौचम्, शुचित्वम् , शुचिता। ' पटोर्भावः कर्म वा पाटवम्, पटुत्वम्, पटुता । बन्धो वो वा कर्म बान्धवम् , बन्धुत्वम् , बन्धुता । पितुर्भावः कर्म वा पैत्रम्, पितृत्वम्, पितृता।
योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकन् । ७ । १।७२ । -- त्र्यादीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम् , तद् गुरु यस्य तस्माद् युपान्त्यात् सुप्रख्यवर्जात् तस्य भावे कर्मणि चाकन् भवति । रमणीयस्य भावः कर्म वा रामणीयकम् , रमणीयस्वम्, रमणीयता । एवम् आचार्यकम् , आचार्यत्वम् , आचार्यता ।
शाकटशाफिनौ क्षेत्रे । ७।१।७८ । षष्ठयन्तात् क्षेत्रेऽर्थे एतौ भवतः । इक्षूणां क्षेत्रम् इक्षुशाकटम्, इक्षुशाकिनम् , शाकस्य क्षेत्रं शाकशाकटम्, शाकशाकिनम् । 'धान्यवाचिभ्यः षष्ठ्यन्तेभ्यस्तु क्षेत्रे ईनञ् वाच्यः' मुद्ानां क्षेत्र मौद्गीनम, एवं कौलत्थीनम् , कौद्रवीणम् । 'नीहिशालिभ्यामेयण ' व्रीहीणां क्षेत्रं त्रैहेयम्, शालीनां क्षेत्रं शालेयम् । ___ यवयवकपष्टिकाद् यः।७।१ । ८१ ।
एभ्यस्तस्य क्षेत्रेऽथे यो भवति । यवानां क्षेत्रं यव्यम, एवं यवक्यम्, षष्टिक्यम् । 'वाऽणुमाषात् । अणूनां क्षेत्रमाणवीनम्। अणव्यम्, माषाणां क्षेत्रं. माण्यम, माषीणम्, यो वा भवनात् से ईनन् ।