________________
( २५२ )
रिति किम- द्वाभ्यां सूर्पाभ्यां क्रीतं द्विसूर्पमत्रान इकणो वा लुब् जातः, पुनश्च द्विसूर्पेण क्रीतं द्विसौर्पिकमत्र न लुब् ।
मूल्यैः क्रीते । ६ । ४ । १५० ।
मूल्यार्थात् तृतीयान्तात् क्रीतेऽर्थे यथाविहितमिकणादयो भवन्ति । प्रस्थेन क्रीतं प्रास्थिकम्, त्रिंशता क्रीतं त्रिंशकम् । तस्य वापे । ६ । ४ । १५१ ।
षष्ठ्यन्ताद् वापेऽर्थे यथाविहितं प्रत्ययो भवति, वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकं क्षेत्रम्, द्रोणस्य वापः द्रोणिकम् ।
'हेतौ संयोगोत्पाते । ६ । ४ । १५३ । षष्ठ्यन्ताद् हेत्वर्थे यथोक्तमिकणादयो भवन्ति । यो हेतुः सचेत् संयोग उत्पातो वा । संयोगः - सम्बन्धः, उत्पातः शुभाशुभसूचको भूविकारः । शतस्य हेतुः शत्यः शतिको वा राजसंयोगः । समग्रहणस्य हेतुरुत्पातः सौमग्रहणिको भूमिकम्पः । पुत्राद येयौ पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः, पुत्रीयः । वातपित्तश्लेष्म सन्निपाताच्छमनकोपने । ६ । ४ । १५२ ।
"
एम्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिकण् भवति । वातस्य शमनं कोपनं वा वातिकम् एवं पैत्तिकम्, श्लेष्मिकम् सान्निपातिकम् ।
"
लोकसर्वलोकात् ज्ञाते । ६ । ४ । १५७ ।