________________
( १७७ )
राष्ट्रेऽनङ्गादिभ्यः । ६ । २ । ६५ ।
अङ्गादिवर्जात् षष्ठ्यन्ताद्राष्ट्रेऽर्थेऽण् भवति । शिवस्य राष्ट्र शैवम् । बीरस्य राष्ट्रं वैरम् । कुमारपालस्य राष्ट्रं कौमारपालम् । भारतम् । 'राजन्यादीनामकञ् वाच्यः' राजन्यानां राष्ट्रं राजन्यकम् । निवासादूरभवे इति देशे नाम्नि | ६ | २ | ६९ ।
षष्ठ्यन्ताद् नाम्नो निवासादूरभवयोर्यथाविहितं प्रत्ययो भवति तदन्तं नाम चेद्रढं देशनाम स्यात् । शिवीनां निवासः शैवं पुरम् । विदिशाया अदूरभवं वैदिशं नगरम् ।
तदत्रास्ति । ६ । २ । ७० ।
तदिति प्रयमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति । प्रथमान्तं चेदस्तीति प्रत्ययान्तं चेद् देशनाम । उदुम्बराः सन्ति यस्मिन् औदुम्बरो देशः ।
तेन निर्वृते च । ६ । २ । ७१ ।
तृतीयान्ताद् निर्वृत्तेऽर्थे यथाविहितं प्रत्ययो भवति, देशनाम्नि | कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ।
मध्वादेः । ६ । २ । ७३ ।
एम्यो निवासाद्य चतुष्के यथायोगं मतुः भवति, देशनाम्नि
शिखायाः । ६ । २ । ७६ ।
मधुमाबू ।
12