SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [ १ ] श्रीविश्वनाथः शरणम् । इह खलु नानाविधभारतीप्रमाभास्वरे भारतेऽद्यावधि परमकरुणाक्रान्तस्वान्तैः ' परोक्षापरोक्षज्ञानगौरवाधरीकृतान्यप्रान्तजातविपश्चिज्जातैर्महामहिमशालिभिर्वाचस्पतिप्रतियोगिकसादृश्यानुयोगिभिर्विद्वद्वरिष्ठैः प्रणीता भूयांसो ज्यायांसो लघीयांसश्च शब्दशास्त्रारण्य विहरणमानसमनीषिकेसरिजनानन्दसन्दोहसम्पादकाः शब्दानुशासनग्रन्था अध्ययनाध्यापनविषयतामुपलभमानाः सर्वत्रैव प्रत्यक्षीक्रियन्ते । तेषु निखिलशास्त्रीयविषयान् करकमलामलकवद् वीक्षमाणैः सुप्रतीतनामधेयैराईत मतावतंस भूतैः श्रीमद्धेमचन्द्राचार्य्यसूखिय्यैः सम्पादितः स्वोपज्ञबृहद्वृत्तिसमेतः सिद्धहेमनामको ग्रन्थः प्रायः सर्वान् नूतनानतिशेते । तस्य च तीक्ष्णबुद्धिवैभवैरपि दुरवगाहतया तत्प्रणीतलघुवृत्तेश्च सूत्रक्रमेण निर्मिततया सस्कृते प्रविविक्षूणां बालानां सुगमतया अशक्यबोधविषयत्वात् परमकारुणिकैः सकलशास्त्रनिष्णातस्वान्तैः श्रीमन्मुनिप्रवरमङ्गळ विजयैः सकुतूहलं सम्पादितः सद्यः शब्दसाधुत्वसम्पादकोऽल्पीयसा प्रयत्नेन हृदयग्राह्यः सिद्धहेमपयोनिधिदुग्धसारभूतोऽयं धर्मदीपिकाभिधो ग्रन्थोऽवश्यं संस्कृतसाहित्यसुमेरुशिखरारुरुक्षून् बालान् स्वास्वादेनातितरां सन्तोषयेदित्याशास्ते सं. १९७९ } काशीस्थविरळाविद्यालय-व्याकरणसाहित्य - न्यायप्रधानाध्याकः व्याकरणोपाध्यायः सभापतिश मोपाध्यायः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy