SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ( १६८ ) द्विस्वरादनद्याः । ६ । १ । ७१ । सद्यर्थवर्जिताद् द्विस्वराद् ज्याप्फ्यूडन्तादपस्य एयण भवति । दत्ताचा अपत्यं दात्तेयः । नद्यर्थवर्जनात् सैप्रः, विधानबलात्पूणापि न । 'शुभ्रादीनामेयणू वाच्यः' शौभ्रेयः । कल्याणादेरिन् चान्तस्य । ६ । १ । ७७ । कश्वाण इत्येवमादीनामपत्येऽर्थे एयण् अन्तस्य चेनादेशो भवति । केचित् कल्याणी इति शब्दं पठन्ति । कल्याणस्यापत्यं काल्याणिनेयः । सौभागिनेयः । दौर्भागिनेयः । बान्धकिनेयः । 'कुलटाशब्दस्य विकल्पेन वाच्यः' कौलटेयः । क्षुद्राभ्य एरणू वा । ६ । १ । ८० । अङ्गहीना वाऽनियतपुरुषाः स्त्रियः क्षुद्रा इति कथ्यन्ते । क्षुद्रार्थेभ्य: स्त्रीभ्योऽये एरणू वा भवति । काणाया अपत्थं कारः पक्षे काणेयः । दास्या अपत्यं दासेरः, दासेयो वा । 'भ्रातृशब्दाद्व्य ईयश्च स्वसृशब्दाचेयो वक्तव्यः' आतृव्यः भ्रात्रीयः । स्वस्त्रीयः । श्वशुराद् यः' श्वशुर्यः । " मातृपित्रादेर्देयणीयणौ । ६ । १ । ९० । मातृ-पितृशब्दाभ्यां परो यः स्वसृशब्दस्तदन्तादपत्येऽर्थे जेवणौ भवतः । मातृस्वसुरपत्यं मातृष्वस्त्रेयः, मातृष्वस्रीयः । पैतृष्वसेयः पैतृष्वस्त्रीयः । मातृपितुः स्वसुः । २ । ३ । १८ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy