SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ( १९२) अथ तद्धितार्थों निरूप्यते । तद्धितोऽणादिः । ६।१।१। इतो वक्ष्यमाणा अणादिप्रत्ययास्तद्धितसञ्जका भवन्ति । पौत्रादि वृद्धम् । ६ । १।२। पौत्रप्रभृति अपत्यं वृद्धम् । अपत्यवतः परमप्रकृतेर्यत् पौत्राधपत्यं तद् वृद्धसञ्ज्ञकं भवति । गर्गस्यापत्यं पौत्रादि: गार्ग्यः । नडस्यापत्यं पौत्रादिः नाडायनः । पौत्रादीति किम्-गर्गस्यानन्तरापत्यं गार्गिः । वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा । ६।१।३। वंश्यः पित्रादिः, ज्यायान् भ्राता वयोधिक इत्यर्थः, स चैकपितृकः एकमातृको वा, प्रपौत्रो मूलप्रकृतेश्चतुर्थः । वंश्ये. ज्येष्ठभ्रातरि च जीवति सति स्त्रीवर्जितं प्रपौत्राद्यपत्यं युवसंज्ञकं भवति। गाय॑स्य युवाऽपत्यं गार्या यणः । वंश्यन्यायोभात्रोरितिकिम्गार्ग्यः । जीवतीति किम्-मृते गार्ग्यः । अस्त्रीतिकिम्-स्त्री गार्गी। सपिण्डे वयःस्थानाधिके जीवद् वा । ६।१।४। ___ ययोः सप्तम एकः पुरुषस्तो मिथः सपिण्डौ स्तः। वयो यौवनादि । स्थानं पिता पुत्रादि च। द्वाभ्यां वयःस्थानाभ्यामधिके सपिण्डे जीवति सति मूलप्रकृतेः स्त्रीवयं प्रपौत्राद्यपत्यं
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy