SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ (१५८) पति-परोऽनोरव्ययीभावात् । ७ ।।। ८७ । प्रत्यादिपर्वादयन्तादम्ययीभावादद भवति । प्रत्यक्षम् । कोलम् । अन्वक्षम् । 'अन्नन्ताहव्ययीभावादः वाच्यः' उपतक्षम् । गिरि-नदी-पौर्णमास्यानायव्ययश्चमका वा। ७।३ । ९०। - एतदन्तात् पञ्चमवर्नवर्गान्ताच्चाव्ययीभावादद् वा भवति । अन्तर्गिरम्, अन्तर्गिरि । उपनदम्, उपनदि । उपपौर्णमासम्, उपपौर्णमासि । उपाग्रहायणम्, उपाग्रहायणि । उपचम्, उपयुक् । 'संख्यार्थात् पराभ्यां नदी-गोदावरीभ्यां तु नित्यं वक्तव्यः । पन्चनदम् , द्विगोदावरम् । जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् । ७ । ३ । ९५ । एभ्यः परो य उक्षशब्दस्तदन्तात् कर्मधारयादद् भवति । मातोलः । महोक्षः । वृद्धोक्षः। स्त्रियाः पुंसो द्वन्द्वाच्च । ७ । ३ । ९६ । स्त्रीशब्दात् परो यः पुमान् तदन्ताद् द्वन्द्वात् कर्मधारयाचाद् मपतिः । स्त्रीपुंसौ । स्त्रीपुंसः । 'ऋक्सामे, ऋग्यजुषम्, धेन्वन हो, वाङ्मनसे, अहोरात्रः, रात्रिंदिवम्, नक्तंदिवम्, अहर्दिकम् , उर्वष्ठीवम् , पदष्ठीवम्, अक्षिध्रुवम्, क्षारगवम् । एते. अदन्ता द्वन्द्वे निपात्याः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy