SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ इति किम्- द्रव्येऽथें वर्तमानाद् न भवति शोभना गन्धा द्रव्याणि यस्य स सुगन्ध आपणिकः । 'आहार्ये गुणे वा इद् वक्तव्यः' शोभनो गन्धो यस्य तत् सुगन्धि सुगन्धं शरीरम्। 'अल्पार्थाद् गन्धशब्दाद् विकल्पेनेद् वाच्यः' सूपगन्धि, घृतगन्धि भोजनम् । 'उपमानार्थात् माद् गन्धशब्दादपि उत्पलगन्धि मुखम् । 'सम्पूर्वात् प्रपूर्वाच्च जानुशब्दस्य बहुव्रीहौ जुज्ञावादेशौ वाच्यौ' संज्ञः, संज्ञः, प्रजुः, प्रज्ञः । 'मन्दाल्पाभ्यां पराद् मेधाशब्दस्यापि बहुव्रीहौ अस् समासान्तो वाच्यः' मन्दा मेधा यस्यासौ मन्दमेधा एवमल्पमेधाः । स्त्रियाम्धसो न् । ७ । ३ । १६९ । । . स्त्रियां वर्तमानस्योधसो बहुव्रीहौ न स्यात् । कुण्डमिवोधी यस्याः सा कुण्डोध्नी गौः। स्त्रियामिति किम्- कुण्डोधागोमात्रः। 'खर-खुरशब्दात् परस्य नासिकाशब्दस्य सज्ञायां नसादेशः स्यात् खरणाः, खुरणाः । 'उपसर्गात् परस्य नासिकाया नसादेशो वाच्यो अदुव्रीहौ' प्रणसं मुखम्। 'वेरुषसर्गात्तु नासिकाया खु-ख-या आदेशा बोध्याः विगता नासिका यस्यासौ विखुः, विखः, विनः । धनु:शब्दस्य बहुव्रीहौ धन्वन् वक्तव्यः' पुष्पधन्वा । सक्थ्यक्ष्णः स्वाङ्गे । ७।३ । १२६ । साहायौँ यो सक्थ्यक्षी तदन्ताद् बहुव्रीहेष्टो भवति । दीर्घसाथी, विशालाक्षी । स्वाङ्ग इति किम्- दीर्घसक्थि शकटम् । प्रमाणीसंख्याद् डा । ७।३ । १२८।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy