________________
हरिणाक्षी, मनाइयोधस्मिन् गणे एव्याः । प्रादिपूर्व धातुजं पदं समस्यते, विकल्पेन उत्तरपदलोपश्च । प्रपतितानि पर्णानि यस्य स प्रपर्णः, न विद्यमानः पुत्रो यस्य स अपुत्रः, पक्षे अपतितपर्णः, अविद्यमानपुत्र इति ।
सहस्तेन । ३ । १ ।२४। तुल्ययोगे विद्यमानार्थे च वर्तमानं सहेति नाम तृतीयान्तेन नाम्ना समस्यते, अन्यपदार्थे स च बहुव्रीहिः । तुल्ययोगो द्रव्यगुणक्रियया। पुत्रेण सह गोमान सपुत्रो गोमान् , पुत्रेण सह स्थूलः सत्रः स्थूलः, पुत्रेण सहागतः सपुत्र आगतः । विद्यमानता-सह कर्मणा वर्तत इति सकर्मा जीवः, सलोमकः पुरुषः। सहेति किम्साकं पुत्रेण ।
____ सहस्य सोऽन्यार्थे । ३।२।१४३ । - उत्तरपदे परे बहुव्रीहौ सहस्य स आदेशो वा स्यात्। सपुत्रः, सच्छात्रः। विशेषण-सर्वादि-संख्यं बहुव्रीहौ । ३ । १ । १५० ।
विशेषणं सर्वादि संख्यामचि च बहुव्रीहौ प्राग् निरतति । चित्र, कालकण्ठः, मोक्षबुद्धिः, सर्वशुक्लः, त्रिकृष्णः । प्रियशब्दो . वा प्राग निपतति' गुडप्रियः, प्रियगुडः ।
गढ़वादिभ्यः । ३।१।१५६॥