________________
(१११)
अथ कारकप्रकरणम् ।
क्रियाहेतुः कारकम् । २ । २ । १ । . क्रियाया हेतुः कारणं कर्तृ-कर्म-करणादि तत् कारकसज़ स्यात्। तच्च शक्तिविशेषरूपम्, शक्ति-शक्तिमतोरभेदाद मैत्रादीनां कारकत्वम् । करोतीति कारकमित्यन्वर्थसञ्ज्ञासमाश्रयणेनानाविष्टव्यापाराणां हेत्वादीनां निमित्तमात्रत्वात् कारकसज्ञा न भवति ।
स्वतन्त्रः कर्ता । २।२।२। क्रियायां हेतुभूतः क्रियासिद्धावपराधीनतया प्रधानीमत प्रकृ. तधात्वर्थव्यापाराश्रयत्वेन विवक्षितः कारकविशेषः कर्तृतज्ञक: स्यात् । जिनेन्द्रेणोपदिष्टं प्रवचनम्। श्राद्धेन क्रियते जिनमन्दिरम्।
नाम्नः प्रथमैक-द्वि-बहौ । २ । २।३१ ।
एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानाद् नाम्नः परात् क्रमेण सि-औ-जमरूपा प्रथमा विभक्तिः स्यात् ।कर्मादिकारकेषु अनुक्तेषु द्वितीयादीनां विधास्यमानत्वेन प्रकृते च विशेषानभिधानेनाविशिष्टार्थमात्रे प्रथमा विज्ञेया । तत्र अर्थो द्विविधः अभिधेयरूपो द्योत्यरूपश्च । तत्राद्यः स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिलक्षणः पञ्चकः समग्रोऽसमग्रो वा नामार्थः । शब्दस्यार्थे प्रवृत्तौ. निमित्तमतः स्वरूप-जाति-गुण-क्रिया-सम्बन्धादिरूपः स्वार्थः । यत्तदादि