________________
(१०१) सर्विका पाठिका कारिका हारिका मद्रिका । अस्येति किम । गोका । निद्भिन्नककार परे इत्येव जीवका नन्दका, अत्राशिषि कन् प्रत्ययः । आप्पर इत्येव । कारकः ।
इच्चापुंसोऽनिक्याप्परे । २।४ । १०७ ।। .. अलिङगाच्छब्दात् विहितस्यापः स्थाने इकारो इस्वश्च वा स्यात्, नकारानुबन्धवर्जितप्रत्ययावयवभूते आप्परे ककारे परतः । अल्पा खट्वा खट्विका खट्वका खट्वाका। गङ्गिका गङ्गका गङ्गाका । कप्प्रत्यये तरादौ च परे पूर्वल्य इस्वो वा भवति । तर-उम-रूप-कल्पादयः तरादयः। तरादौ च पुंवद् वा वेण्येव वेणिका वेणीका । नदी एव नदिका नदीका । अतिशयेन प्रशस्या श्रेयसी अतिशयेन श्रेयसी श्रेयसितरा श्रेयसीतरा पुंवद्भावे च श्रेयस्तरा। बहुव्रीही चाबन्तानाबन्तानां वा हस्वः बहुमालाकः बहुमालकः ।
स्त्रियां नृतोऽस्वस्रादेमः । २।४।१। ___ स्त्रियां वर्तमानाद् नकारान्ताहकारान्ताच्च स्वस्त्रादिवर्जिताद् नाम्नः परो डीप्रत्ययः स्यात् । राज्ञी। दण्डिनी। करिणी। मालिनी । शूनी । कीं । हीं । अस्वस्रादेरिति किम्
स्वसा तिस्र श्चतस्त्रश्च ननान्दा दुहिता तथा । ... याता मातेति सप्तैव स्वस्रादय उदाहृताः ॥ १ ॥
- अधातूदृदितः । २ । ४।२।