________________
किञ्चित्प्रास्ताविकम।
विदितमेव समेषां विदुषां यद् भूषणं हि भूष्यतेऽनेनेति व्युत्पत्त्या स्वावृत्तिशोभाजनकं स्ववृत्तिशोभावर्धकं वा। तत्र पार्थिवमौक्तिकादिभूषणापेक्षया "वाण्येका समलङ्करोति पुरुषम्” इति न्यायेन ज्ञानोत्पादकग्रन्थरूपभूषणानामेव मुख्यत्वम् । तेषु चेश्वरनिश्वसितत्वेनापौरुषेयत्वेन च वेदानामेव प्राधान्यम्। आमनन्ति च पाश्चात्याः पौर्व त्यास्सर्वेऽपि “न वेदेभ्योऽपि प्राचीनग्रन्थो ज्ञानोत्पादकश्चोपलभ्यत" इति । तत्रापि केवलवेदापेक्षया साङ्गवेदाध्ययनस्य साङ्गवेदज्ञानस्यैव च मुख्यत्वम् । श्रुतं हि "ब्राम्हणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो शेयश्च" इति । तत्र वेदाङ्गेषु शरीरावयवेषु मुखस्येव व्याकरणस्यैव मुख्यत्वम् मुखस्थानीयत्वात् । उक्तं हि “निरुक्तं श्रोत्रमुच्यते। शिक्षाघ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्” इति । तत्रापि पोणिनीयव्याकरणस्यैव भूषणरूपवेदानामङ्गत्वम् सकलवेदसाधारणत्वात् , वैदिकशब्दसाधुत्वबोधकत्वाच्च । पाणिनीयव्याकर रणेऽपि भौतिकाकाशगुणशब्दसाधुत्वबोधकग्रन्थापेक्षयाऽऽत्मनिष्ठज्ञानरूपगुणोत्पादकत्वेन ज्ञानजनकग्रन्थानां भूषणादिकानामेव प्राधान्यम्, प्रत्यासन्नत्वात् । बृहद्वैयाकरणभूषण-भूषणसारग्रन्थयोर्मध्ये लघुभूषणसारस्यैव प्राधान्यम् । अल्पाक्षरयुक्तत्वेऽपि सकलार्थसंग्राहकत्वात् । अपेक्षणीयं हि पुरुषाणामवश्यं तद् भवति, यत् सकलार्थप्रतिपादकत्वेऽपि सूत्रवल्लाघवयुक्तं भवति । अत एवास्यैव भूषणसारस्य सर्वत्र पठनपाठनादिप्रचारो राजकीयपरीक्षाग्रन्थेषु निवेशनं च दरीदृश्यते ।
सोयं भूषणसारो वाङ्मयेषु भूषणानामपि भूषणभूतोऽनेकवार सर्वत्राङ्कितोऽपि पुनश्च साकं दर्पणेन मुद्रयते । अस्योपरि बह्वयष्टीका वर्तन्त इति श्रयते । तत्र मयां टीकाचतुष्टयं व्यलोकि। एका काशिकाख्या। अपरा धात्वर्थनिर्णयान्ता नामरहिता । “परीक्षा"नाम्नी श्रीभैरवमिश्रकृतान्या। परा दर्पणाख्या उत्प्रभातीयोपनामकहरिवल्लभविरचिता। तासु दर्पणस्यैवस्वीकारे मुख्य कारणं, अत्र यथा व्याकरणमतं