________________
२२२
समरसिंह
सूरि के पट्टधर देवगुप्तसूरि द्वारा प्रतिष्ठा करवाई थी, विद्यमान है।
जो इस प्रकार है
-
तदङ्गभूर्भावविभूषितान्त: सारङ्ग साधु प्रथितप्रतापः । आजन्म यस्याभवदाप्तशोभः सुवर्णधारा बिरुद प्रवाहः ॥ श्री साहणः साहिनृपाधिपानां सदापि सन्मानपदं बभूव । देवालयं देवगिरौ जिनानामकारयद् यो गिरिशृङ्गतुङ्गम् ॥ बन्धुस्तृतीयो जगती जनेन सुगीत कीर्तिः समरः सुचेताः । शत्रुञ्जयोद्धार विधि विधाय जगाम कीर्ति भरताधिकान्यः । य पाण्डुदेशाधिपमोचनेन गतः परांख्यातिमतीव शुद्धाम् ॥ महम्मदे योगिनीपीठनाथे तत्प्रौढतायाः किमु वर्णनं स्यात् । सुरत्नकुक्षि समरश्रिय सा यहुद्भवाः षट् तनुजा जगत्याम् । साल्हाभिधः श्रीसहितो हितस्तेष्वादिमोऽपि प्रथितोऽद्वितीयः ॥ देवालयैर्देव-गुरुप्रयोगाद् द्विवाणसंख्यैर्महिमानमाप । सत्याभिधः सिद्धगिरौ सुयात्रां विधाय सङ्घाधिपतेर्द्वितीयम् ॥ यो योगिनीपीठनृपस्य मान्यः सडुङ्गरस्त्यागधनस्तृतीयः । जीर्णोद्धृतेर्धर्मकरश्चतुर्थः श्री सालिगः शूरशिरोमणिश्च ॥ श्री स्वर्णपालः सुयशोविशालश्चतुष्कयुग्मप्रमितैरमोघेः । सुरालयैः सोऽपि जगाम तीर्थ शत्रुञ्जय यात्रिकलोकयुक्तः ॥ स सज्जन सज्जनसिंह साधुः शत्रुञ्जये तीर्थपदं चकार । योद्वयाब्धि संख्ये समये जगत्या जीवस्य हेतुः समभूज्जनानाम् ॥ १७ ॥
उपर्युक्त वि० सं० १३७१ के शिलालेखों में बतलाई हुई समरसिंह की
वंशावली और प्रस्तुत प्रशस्ति में दी हुई वंशावली में कुछ अन्तर है तथापि