________________
5
10
15
20
25
६३०]
[ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य राज्याभिषेकः ॥ परित्यक्तान्यकृत्याभिः प्रेङ्खोलत्प्रीतिवीचिभिः । गवाक्षप्रहिताक्षीभिर्मृगाक्षीभिर्निरीक्षितः ॥३०२॥ चत्वरे चत्वरे सोऽथ मञ्चे मञ्चे गृहे गृहे । गृह्णन्माङ्गलिकान्युच्चैः प्राविशन्नागसाह्वयम् ||३०३॥ षड्भिः कुलकम् । तस्याध्यासितसौधस्य दधिदूर्वाक्षतादिभिः । प्रसृतोल्लोलकल्लोलं कुन्ती मङ्गलमादधे ||३०४ ॥ श्रिया नूतनया राजन् राजसिंहासने पुनः ।
स तदा स्थापयाञ्चक्रे पाण्डुना विष्णुनाऽपि च ॥३०५॥ उपदायामुपेतानामिभानां बृंहितैर्मुहुः ।
तदा मङ्गलतूर्याणां निनादो मेदुरीकृतः ॥ ३०६ ॥ कुङ्कुमस्थासकै रत्नाकल्पैश्चाश्वीयसङ्कटे । उपदा वाजिनस्तस्याजिरे व्यानञ्जिरे तदा ॥३०७॥ महीपालकिरीटोऽसौ किरीटं कैटभारिणा । पारावारार्पितै रत्नैः पर्युप्तं पर्यधाप्यत ॥३०८॥ अजातारेस्ततो जाते क्षितिपानामुपायने । अतिप्रीतिपराः पौरा मङ्गलानि वितेनिरे ॥ ३०९ ॥ उपेत्योपेत्य वृन्देन पौरपण्याङ्गनागणः । सङ्गीतं सूत्रयामास तूर्यत्रिकविचक्षणः ॥ ३१०॥ जाते स्वामिन्यजातारौ प्रजाः पूर्णोपयाचिताः । पुरमुज्जागरं चक्रुर्देवेभ्यस्तूर्यजागरैः ॥ ३११॥ वीक्ष्य धर्मात्मजे गाढं नागराननुरागिणः । अश्लाघत पृथां तादृक्पुत्रप्रसविनीं हरिः ॥ ३१२॥ व्यधत्त धर्मसूर्नित्यं कुन्त्याः पाण्डोश्च यादृशीम् । वितेने तादृशीं भक्ति गान्धारीधृतराष्ट्रयोः ||३१३॥ पञ्चमूर्तिकमात्मानं स पश्यन्नतिवत्सलः । चक्रेऽर्धचक्रिणोऽध्यक्षं बन्धून्सर्वाधिकारिणः ॥ ३१४॥ आपृच्छ्यमानमन्येद्युर्गमनाय जनार्दनम् । सभायामञ्जलिं बद्ध्वा धर्मजन्मा व्यजिज्ञपत् ॥३१५॥