SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ४६०] [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य कथनम् ॥ इति श्रुत्वा रिपुश्रेणिदुर्जयः संजयोदितम् । धर्मभूरभिधत्ते स्म स्मितस्तबकिताधरः ॥१२९॥ आर्य संजय ! जीवातुर्धर्मस्य यशसोऽपि च । तातेन न्यायनिर्णिक्तमुक्तमायाति पेशलम् ॥१३०॥ शौण्डीराणां तु धर्मोऽयं न खलु क्वापि गीयते । भुज्यते भूः पुरस्तेषां बान्धवैरपि यद्बलात् ॥१३१॥ अकीर्तिर्भुजविस्फूर्तिमतां बन्धुवधोद्यमः । भूभोगस्तु प्रसह्यायमकीर्तेरपि मञ्जरी ॥१३२॥ शमः प्रसाधनं पुंसां यावन्नारिपराभवः । पराभूतौ पुनः क्रान्तवैरिचक्रपराभवः ॥१३३॥ तन्न मे बान्धवान्हन्तुं काममुत्कण्ठते मनः । राज्यमप्यात्मनस्त्यक्तुमेवमेव च नेच्छति ॥१३४॥ त्यजामि चेत्प्रशान्तत्वात्कथञ्चन महीमहम् । अमी त्ववार्यशौण्डीर्यमन्दिरं न सहोदराः ॥ १३५॥ तद्विचिन्त्य तदादेश्यं यदेवं सति युज्यते । इति मे वृद्धतातस्य नतिपूर्वं निवेदयेः ॥१३६॥ जगाद नन्दनस्तारनिस्वनो मातरिश्वनः । क्षोणिप्रत्यर्पणेनापि न तैः संधिं विदध्महे ॥१३७॥ पश्यतां चिरमस्माकमायातोऽयं रणोत्सवः । अत्र वीक्षिष्यते वैरिकबन्धशतताण्डवम् ॥१३८॥ ऊरुं दौर्योधनीं भित्त्वा छित्त्वा दौःशासनीं भुजाम् । भविष्यामि ध्रुवं पारंगमः सङ्गरसागरे ॥१३९॥ जिष्णुरप्युज्जगावेतत्त्यजामः समरं न हि । १ तृप्यन्त्यन्यत्र नानासृक्पानश्रद्धाः खगाः क्व मे ? ॥१४०॥ जल्पतः स्म यमौ संधिर्यदिस्यात्तत्कथं द्विषाम् । भित्त्वा वक्षःस्थलीं वीक्षामहे कौटिल्यपाटवम् ? ॥१४१॥ १. परिणामसुन्दरम् । २. शराः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy