SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । बकराक्षसस्य सचिवादीनामागमनम् ॥] यतः प्रभृति कल्याणिन्नुपागान्नगरीमिमाम् । ततः प्रभृति पौराणामभूदभ्युदयो महान् ॥६४०॥ इदानीं तु समानीते बके कीनाशदासताम् । सञ्जातोऽस्य शरण्यानां प्रजानामभयप्रदः ॥ ६४१॥ अतः परं प्रजाः सन्तु पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च पुत्रार्थमुपयाचितम् ॥६४२॥ जनन्योऽनुपमस्नेहाः पालयन्तु तनूरुहान् । चिराय वरिवस्यन्तु सवित्री : स्वाः सुता अपि ||६४३॥ एतत्तु कथ्यतां सौम्य ! कतमस्ते स बान्धव: ? । इन्द्रेण पाकवच्चक्रे बको येन यमातिथिः ? ॥६४४॥ ततो धर्मात्मजस्तस्मै कथयामास लीलया । बन्धुः सैष कनीयान्मे संहर्ता सकलापदाम् ॥ ६४५॥ तदुपश्रुत्य सर्वेषामेकचक्रानिवासिनाम् । मुग्धाः स्निग्धाः सुधासान्द्रा विकसत्पक्ष्मसम्पुटाः ॥६४६॥ निमेषविमुखाः क्रोडीकृतानन्दाश्रुबिन्दवः । जीवितव्यप्रदे भीमे निपेतुर्युगपद् दृशः ||६४७॥ युग्मम् । अथ पप्रच्छ निःशोको लोको बकनिषूदनम् । कथ्यतां प्रथयाञ्चक्रे कथं बकवधस्त्वया ॥६४८॥ इमामुदाहरिष्यामि कथां कथमिवात्मनः ? । इति तूष्णीं स्थिते भीमे जने चावहितेऽधिकम् ॥६४९॥ अवतीर्यः नभःक्रोडात्पुरतः पाण्डुजन्मनाम् । उभौ युवा च वृद्धश्च पुरुषावेत्य तस्थतुः ॥६५०॥ युग्मम् । तयोरुवाच वर्षीयान् विस्मितं धर्मनन्दनम् । बकराक्षसराजस्य दुर्बुद्धिः सचिवोऽस्म्यहम् ॥६५१॥ अयं महाबलो नाम धाम धाम्नां तदात्मजः । निजान्वयपुरीं लङ्कां समयेऽस्मिन् गतोऽभवत् ॥६५२॥ १. यमराजदासत्वं - मरणमित्यर्थः । २. पूजयन्तु । ३. मातृः । [ ३३३ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy