________________
[२९३
सप्तमः सर्गः । दुर्योधनस्य संदेशः ॥]
स्तोत्रैश्चित्रैरभिष्टुत्य तौ कुन्तीदेवकीसुतौ । निजं सौधं समध्यास्य बुभुजाते जनैः सह ॥११५॥ जिनप्रभावनारम्भनिशुम्भितनिजांहसः । ते सर्वे गमयामासुर्वासराणि कियन्त्यपि ॥११६॥ उपेत्यान्येधुरासीनं कृष्णाभ्यर्णे युधिष्ठिरम् । ऊचे पुरोचनो नाम दुर्योधनपुरोहितः ॥११७॥ आबद्धपाणिमुकुलस्तव बन्धुः सुयोधनः । इदानीं मन्मुखेनेदं विज्ञापयति सादरम् ॥११८॥ आर्य ! धुर्यस्त्वमार्याणामनार्याणामहं पुनः । त्वमग्रणीर्गुणवतां निर्गुणानामहं पुनः ॥११९॥ उत्तंसः सज्जनानां त्वं दुर्जनानामहं पुनः । धौरेयस्त्वं सुबुद्धीनां दुर्बुद्धीनामहं पुनः ॥१२०॥ शेखरस्त्वं कृतज्ञानां कृतघ्नानामहं पुनः । त्वमुत्तमानां माणिक्यमधमानामहं पुनः ॥१२१॥ आदिमस्त्वं महेच्छानामल्पेच्छानामहं पुनः । त्वमाद्यः कृतविद्यानां निविद्यानामहं पुनः ॥१२२॥ मया विवेकशून्येन यत्तवापकृतं पुरा । प्राकृतेष्वपि तन्न स्यात् कुरुवंशे तु का कथा ? ॥१२३।। तानीदानी व्यलीकानि त्वं मम क्षन्तुमर्हसि । स्खलितं यत्कनिष्ठस्य बन्धोयेष्ठस्य तन्मुदे ॥१२४॥ भवन्त्युच्चावचा वाचो याः काश्चन दुरोदरे । तासामनुपदी कः स्याद्विशेषेण भवादृशः ॥१२५।। तत्प्रसीद समभ्येहि गृहाननुग्रहाण माम् । सञ्चरस्व पुनः स्वैरं हस्तिना हस्तिनापुरे ॥१२६॥ यज्जज्ञे त्वय्यवज्ञाभिः पुरा कितवकैतवे । स्वक्रमाम्भोजरजसा रजस्तन्मे प्रमृज्यताम् ॥१२७॥ सदाऽस्तु मालतीपुष्पस्तबकप्रातिवेश्मिकी । अतः परं तवाज्ञा मे मौलिपल्यङ्कखेलिनी ॥१२८॥